अतीव धन्य एव विष्णुदेव विश्वतारक: |
धरानिवासिनां नृणां विकास-वासदर्शक: ||
दशावतार तस्य दर्शयन्ति प्राणिवर्धनम् |
जले-स्थले वसन्ति ये इदं च जीववर्णनम् ||
जले बभूव जीवनस्य निर्मिति: पुरा तदा |
यदा स विष्णुदेव मत्स्यरूपकं च धारित: ||
विकासभूत जीव आगतो यदा जलाद्बहि: |
स कूर्मरूपधारणेन ख्याति देव श्रीहरि: ||
क्रमेण सस्तनस्तनभृतश्च जीव आगत: |
तदा वराह नाम विष्णुनाsवतार धारित: ||
अनन्तरं नरस्य उद्भव: पशोर्यदाsभवत् |
स पद्मनाभ मध्यप्राणिनं नृसिंह सूचयत् ||
अथैव उन्नतिक्रमे बटुर्नरोsजायत |
स वामनावतारधारणेन देवदर्शित: ||
यदा मनुष्य शस्त्रचालने प्रवीणताङ्गत: |
न किं नरस्य तस्य एव जामदग्न्य रूपक: ||
विकासितम् नरेण ब्रह्म अस्त्र यान-पुष्पकम् |
युगस्य तस्य एव जानकीपतिस्स दैवतम् ||
प्रचण्डयुद्धमत्र हस्तिनापुरे यदाsभवत् |
तदाsष्टमावतार कृष्ण मार्गदर्शकोsभवत् ||
मनुष्य ऐहिकोपभोगत्याग कर्तुमुद्यत: |
तदा यदा स बुद्ध प्राव्रजत् मन: कुटुम्बत: ||
अयम् प्रभोर्दशावतार धारणस्य अन्वय: |
यदल्पबुद्धिना सुभाषितेsनुकारितो मया ||
वयं मुखे दशावतारस्तोत्र रक्षिष्यामहे |
तदर्थमेव नो मतीस्त्वमेव रक्ष श्याम हे!